Friday, November 23, 2007

"गोमयम्-पर्यावरणानुकूलम्"

अधुना कृत्रिमस्य ऊर्वर्कस्य काले गोमयम् तु निरर्थकमेव कथयन्ति बहवः जनाः । परन्तु जानन्ति अल्पीयान्सः एव जनाः यत्-अस्य उपयोगः विदेशेभ्य निर्याताय अपि भवितुं शक्नोति । "डच" देशीयैः तु अस्य निर्यातः आरब्धः यतोऽहि तत्र एतं पर्यावरणानुकूलम्मन्यन्ते । अत एव अस्य नाम तत्र - " एनवायरो डंग " इत्युच्यते । अस्माकं भारत सर्वकारोऽपि आयातयितुं विचारयति ।इदमत्रावधेयं यत्- भारते पशूनां सर्वाधिका संख्या विद्यते ॥

" अल्पतमः आयुषः बी. सी. ए. स्नातकः"

शैलेन्द्रः केवलं चतुर्दश-वर्षीयः अस्ति, परन्तु अनेन लख्ननऊ विश्ववविद्यालयतः बी.सी.ए. परीक्षा प्रथम श्रेण्यां उत्तीर्णा । एकस्यां विशेषपरीक्षायामुत्तीर्णे सति तेन बी. सी. ए. परीक्षायामुपवेष्टुम् अनुमति प्राप्ता । कुलपति डा. रामप्रकाश सिंह औद्घोषयत् यत्- उच्चतर शिक्षां प्राप्तुं विश्वविद्यालयः तस्मै आर्थिकम् साहाय्यं करिष्यति । संयोगस्य वार्ता एषा यत्- शैलेन्द्रस्य सप्तवर्षीयया भगिन्या अपि किञ्चित्कालपूर्वमेव पूर्व-मध्यमा ( हाई-स्कूल ) परीक्षा उत्तीर्णा ॥