Friday, November 23, 2007

" अल्पतमः आयुषः बी. सी. ए. स्नातकः"

शैलेन्द्रः केवलं चतुर्दश-वर्षीयः अस्ति, परन्तु अनेन लख्ननऊ विश्ववविद्यालयतः बी.सी.ए. परीक्षा प्रथम श्रेण्यां उत्तीर्णा । एकस्यां विशेषपरीक्षायामुत्तीर्णे सति तेन बी. सी. ए. परीक्षायामुपवेष्टुम् अनुमति प्राप्ता । कुलपति डा. रामप्रकाश सिंह औद्घोषयत् यत्- उच्चतर शिक्षां प्राप्तुं विश्वविद्यालयः तस्मै आर्थिकम् साहाय्यं करिष्यति । संयोगस्य वार्ता एषा यत्- शैलेन्द्रस्य सप्तवर्षीयया भगिन्या अपि किञ्चित्कालपूर्वमेव पूर्व-मध्यमा ( हाई-स्कूल ) परीक्षा उत्तीर्णा ॥

2 comments:

दिवाकर मिश्र said...

अहो सौभाग्यम् भ्रातरौ एते शैलेन्द्रः तस्य भगिनी च । केचिज्जनाः एतादृशाः भवन्ति यत् एतत् विश्वसितुं विना कोऽपि मार्गः न अवशिष्यते यत् संस्कारः जन्मान्तरेषु संक्रामति ।

दिवाकर मिश्र said...

स्वागतं भवतः ब्लॉगसमुदाये । बढ़ते रहो । लिखते रहो । Keep it up. सौभाग्य की बात है कि उसी विश्वविद्यालय से मैने भी स्नातक परीक्षा उत्तीर्ण की है ।